Sbg 2.72 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.72।।
एषा
यथोक्ता
ब्राह्मी
ब्रह्मणि भवा इयं
स्थितिः
सर्वं कर्म संन्यस्य ब्रह्मरूपेणैव अवस्थानम् इत्येतत्। हे
पार्थ न एनां
स्थितिं
प्राप्य
लब्ध्वा न
विमुह्यति
न मोहं प्राप्नोति।
स्थित्वा अस्यां
स्थितौ ब्राह्म्यां यथोक्तायां
अन्तकालेऽपि
अन्त्ये वयस्यपि
ब्रह्मनिर्वाणं
ब्रह्मनिर्वृतिं मोक्षम्
ऋच्छति
गच्छति। किमु वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो ब्रह्मण्येव अवतिष्ठते स ब्रह्मनिर्वाणमृच्छति इति।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
द्वितीयोऽध्यायः।।