Sbg 2.69 scms

From IKS BHU
Revision as of 17:38, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।2.69।।तदेवं मुमुक्षुणा प्रज्ञास्थैर्याय प्रयत्नपूर्वकमिन्द्रियसंयमः कर्तव्य इत्युक्तं स्थितप्रज्ञस्य तु स्वतःसिद्ध एव


सर्वेन्द्रियसंयम इत्याह। या वेदान्तवाक्यजनितसाक्षात्काररूपाऽहंब्रह्मास्मीति प्रज्ञा सर्वभूतानामज्ञानां निशेव निशा तां


प्रत्यप्रकाशरूपत्वात्तस्यां ब्रह्मविद्यालक्षणायां सर्वभूतनिशायां जागर्ति अज्ञाननिद्रायाः प्रबुद्धः सन्सावधानो वर्तते। संयमी


इन्द्रियसंयमवान् स्थितप्रज्ञ इत्यर्थः। यस्यां तु द्वैतदर्शनलक्षणायामविद्यानिद्रायां प्रसुप्तान्येव भूतानि जाग्रति स्वप्नवद्व्यवहरन्ति सा निशा न प्रकाशत आत्मतत्त्वं पश्यतोऽपरोक्षतया मुनेः स्थितप्रज्ञस्य। यावद्धि न प्रबुध्यते तावदेव स्वप्नदर्शनं


बोधपर्यन्तत्वाद्भ्रमस्य। तत्त्वज्ञानकाले तु न भ्रमनिमित्तः कश्चिद्व्यवहारः। तदुक्तं वार्तिककारैःकारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते। शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिस्तथा।।काकोलूकनिशेवायं संसारो ज्ञात्मवेदिनोः। या निशा


सर्वभूतानामित्यवोचत्स्वयं हरिः।। इति। तथाच यस्य विपरीतदर्शनं तस्य न वस्तुदर्शनं विपरीतदर्शनस्य वस्त्वदर्शनजन्यत्वात् यस्य च वस्तुदर्शनं तस्य न विपरीतदर्शनं विपरीतदर्शनकारणस्य वस्त्वदर्शनस्य वस्तुदर्शनेन बाधितत्वात्। तथाच श्रुतिःयत्र वा अन्यदिव स्यात् तत्रान्योऽन्यत्पश्येत्। यत्रत्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्।। इति विद्याविद्ययोर्व्यवस्थामाह। यथा काकस्य रात्र्यन्धस्य दिनमुलूकस्य दिवान्धस्य निशा रात्रौ पश्यतश्चोलूकस्य यद्दिनं रात्रिरेव सा काकस्येति महदाश्चर्यमेतत्। अतस्तत्त्वदर्शिनः कथमाविद्यकक्रियाकारकादिव्यवहारः स्यादिति स्वतःसिद्ध एव तस्येन्द्रियसंयम इत्यर्थः।