Sbg 2.68 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.68।।
इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात्
तस्मात् यस्य
यतेः हे
महाबाहो निगृहीतानि सर्वशः
सर्वप्रकारैः मानसादिभेदैः
इन्द्रियाणि इन्द्रियार्थेभ्यः
शब्दादिभ्यः
तस्य प्रज्ञा प्रतिष्ठिता।।
योऽयं लौकिको वैदिकश्च व्यवहारः स उत्पन्नविवेकज्ञानस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निवर्तते अविद्यायाश्च विद्याविरोधात् निवृत्तिः इत्येतमर्थं स्फुटीकुर्वन् आह