Sbg 2.65 scneel
Sanskrit Commentary By Sri Neelkanth ।।2.65।।किंच चित्तस्य प्रसादे हि अस्य पुंसः सर्वदुःखानां काममूलकानां कामाभावाद्धानिः परिहारो जायते। कामानुदये हेतुमाह प्रसन्नेति। हि यस्मात्प्रसन्नचेतसः पुंसो बुद्धिर्ब्रह्मात्मैक्यनिश्चय आशु शीघ्रं पर्यवतिष्ठते सुदृढो भवति। तस्मिंश्च सति प्राप्याभावान्न कामोदय इत्यर्थः।