Sbg 2.65 scjaya

From IKS BHU
Revision as of 17:37, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।2.65।।प्रसादे सति किं स्यात् इत्यत उक्तंप्रसाद इति तदाक्षिपति कथ मिति। तरति शोकमात्मवित् छां.उ.7।1।3 इत्यादिविरोधादिति भावः। किञ्च प्रसादे सति ज्ञानं भवतीति वा व्यवधानान्तरं वा वक्तव्यं तत्रोक्तम्। सर्वदुःखहानिश्चावक्तव्यैवोक्तेति चाक्षेपशेषः। एतत्परिहारत्वेनोत्तरार्धं व्याख्याति प्रसन्ने ति। एतेनप्रसादस्य फलद्वयमुच्यते इत्यपि प्रतीतिर्निरस्ता भवति। प्रसादे सति ब्रह्मापरोक्षज्ञानं भवति। तच्च व्यवधानेनेति भविष्यति। ततो भवति सर्वदुःखहानिः प्रसादफलतयोक्तेति न वक्तव्यानुक्तिः नाप्यवक्तव्योक्तिः।बुद्धियुक्तः 2।50 इति श्लोके सुकृतदुष्कृतहानं ज्ञानफलमित्युक्तम् तदयुक्तम् अपुरुषार्थत्वात् इत्याशङ्कां परिहर्तुं प्रसङ्गादिदमुक्तमिति। ननु यस्यानायासेनाभिलषितविषयोपनतिस्तस्य मनोऽव्याकुलं प्रसन्नमित्युच्यते। ततः कथं प्रसादस्येन्द्रियजयफलत्वं ज्ञानसाधनत्वं चोच्यते इत्यत आह प्रसाद इति। अत्र विवक्षितेति शेषः। स्वतोऽपि प्रयत्नं विनाऽपि विषयागतिर्विषयान्प्रत्यप्रवृत्तिः।