Sbg 2.65 scanand
Sanskrit Commentary By Sri Anandgiri ।।2.65।।तथापि नानाविधदुःखाभिभूतत्वान्न स्वास्थ्यमास्थातुं शक्यमित्याशयेन पृच्छति प्रसाद इति।
श्लोकार्धेनोत्तरमाह
उच्यत इति।
सर्वदुःखहान्या बुद्धिस्वास्थ्येऽपि प्रकृतं प्रज्ञास्थैर्यं कथं सिद्धमित्याशङ्क्याह
प्रसन्नेति।
बुद्धिप्रसादस्यैव फलान्तरमाह
किञ्चेति।
तस्माद्बुद्धिप्रसादार्थं प्रयतितव्यमिति शेषः। श्लोकद्वयस्याक्षरोत्थमर्थमुक्त्वा तात्पर्यार्थमुपसंहरति
एवमिति।
युक्तः समाहितो विषयपारवश्यशून्यः सन्निति यावत्।