Sbg 2.62 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।2.62।।बाह्येन्द्रियसंयमाभावे दोषमुक्त्वा मनःसंयमाभावे दोषमाह ध्यायत इति द्वाभ्याम्। गुणबुद्ध्या विषयान्ध्यायतः पुरुषस्य तेषु सङ्ग आसक्तिर्भवति। आसक्त्या त तेष्वधिकः कामो भवति। कामाच्च केनचित्प्रतिहतात्क्रोधो भवति।