Sbg 2.62 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.62।।
ध्यायतः
चिन्तयतः
विषयान्
शब्दादीन् विषयविशेषान् आलोचयतः
पुंसः
पुरुषस्य
सङ्गः
आसक्तिः प्रीतिः
तेषु
विषयेषु
उपजायते
उत्पद्यते।
सङ्गात्
प्रीतेः
संजायते
समुत्पद्यते
कामः
तृष्णा।
कामात्
कुतश्चित् प्रतिहतात्
क्रोधः अभिजायते।।