Sbg 2.61 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.61।।
तानि सर्वाणि संयम्य
संयमनं वशीकरणं कृत्वा
युक्तः
समाहितः सन्
आसीत मत्परः
अहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य सः मत्परः न अन्योऽहं तस्मात् इति आसीत इत्यर्थः। एवमासीनस्य यतेः
वशे हि यस्य इन्द्रियाणि
वर्तन्ते अभ्यासबलात्
तस्य प्रज्ञा प्रतिष्ठिता।।
अथेदानीं पराभविष्यतः सर्वानर्थमूलमिदमुच्यते