Sbg 2.60 scanand

From IKS BHU
Revision as of 17:35, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।2.60।।श्लोकान्तरमवतारयति सम्यग्दर्शनेति। मनसः स्ववशत्वादेव प्रज्ञास्थैर्यसंभवे किमर्थमिन्द्रियाणां स्ववशत्वापादनमित्याशङ्क्याह यस्मादिति। ननु विवेकवतो विषयदोषदर्शिनो विषयेभ्यः स्वयमेवेन्द्रियाणि व्यावर्तन्ते किं तत्र प्रज्ञास्थैर्यं चिकीर्षता कर्तव्यमिति तत्राह यततो हीति। विषयेषु भूयो भूयो दोषदर्शनमेव प्रयत्नः। हिशब्दस्य यस्मादर्थस्य समाप्तौ संबन्धं वक्ष्यति। अपिशब्दस्य प्रयत्नं कुर्वतोऽपीति संबन्धं गृहीत्वा संबन्धान्तरमाह पुरुषस्येति। प्रमथनशीलत्वं प्रकटयति विषयेति। विक्षोभस्याकुलीकरणस्य फलमाह आकुलीकृत्येति। प्रकाशमेवेत्युक्तं विशदयति पश्यत इति। विपश्चितो विदुषोऽपि प्रकाशमेव प्रकाशशब्दितविवेकाख्यविज्ञानेन युक्तमेव मनो हरन्तीन्द्रियाणीति संबन्धः। हिशब्दार्थमनूद्य तस्मादिन्द्रियाणि स्ववशे स्थापयितव्यानीति पूर्वेण संबन्धमभिसन्धायाह यतस्तस्मादिति।