Sbg 2.58 scpur
Sanskrit Commentary By Sri Purushottamji
।।2.58।।कथं तिष्ठेत् इत्यत्रोत्तरमाह यदा संहरत इति। यदा अयं सर्वशः सर्वत्र इन्द्रियार्थेभ्य इन्द्रियभोग्येभ्य इन्द्रियाणि संहरते तस्य प्रज्ञा प्रतिष्ठिता भवतीत्यर्थः। अत्र दृष्टान्तमाह कूर्मोऽङ्गानीवेति। यथा कूर्मः करचरणाद्यङ्गानि स्वभावादपकर्षति। कूर्मदृष्टान्तेन भोग्यदर्शनात् स्वत एवेन्द्रियनिवृत्तिः स्वभावतः स्यात् तथा संहरणं कर्त्तव्यं नित्यमिन्द्रियनियमं कु
र्वं৷৷৷৷৷৷৷৷
स्तिष्ठेदित्यर्थः।