Sbg 2.58 scram
Sanskrit Commentary By Sri Ramanuja ।।2.58।। यदा इन्द्रियाणि इन्द्रियार्थान् स्प्रष्टुम् उद्युक्तानि तदा एव कूर्मः अङ्गानि इव इन्द्रियार्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मनि एव स्थापयति सोऽपि स्थितप्रज्ञः।
एवं चतुर्विधा ज्ञाननिष्ठा पूर्वपूर्वोत्तरोत्तरनिष्पाद्या इति प्रतिपादितम्। इदानीं ज्ञाननिष्ठाया दुष्प्रापतां तत्प्राप्त्युपायं च आह