Sbg 2.58 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.58।।
यदा संहरते
सम्यगुपसंहरते
च अयं
ज्ञाननिष्ठायां प्रवृत्तो यतिः
कूर्मः अङ्गानि
इव यथा कूर्मः भयात् स्वान्यङ्गानि उपसंहरति
सर्वशः
सर्वतः एवं ज्ञाननिष्ठः
इन्द्रियाणि इन्द्रियार्थेभ्यः
सर्वविषयेभ्यः उपसंहरते।
तस्य प्रज्ञा प्रतिष्ठिता
इत्युक्तार्थं वाक्यम्।।
तत्र विषयाननाहरतः आतुरस्यापि इन्द्रियाणि कूर्माङ्गानीव संह्रियन्ते न तु तद्विषयो रागः स कथं संह्रियते इति उच्यते