Sbg 2.55 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.55।।
प्रजहाति
प्रकर्षेण जहाति परित्यजति
यदा
यस्मिन्काले
सर्वान्
समस्तान्
कामान्
इच्छाभेदान् हे
पार्थ
मनोगतान्
मनसि प्रविष्टान् हृदि प्रविष्टान्। सर्वकामपरित्यागे तुष्टिकारणाभावात् शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्तस्येव प्रवृत्तिः प्राप्ता इत्यत उच्यते
आत्मन्येव
प्रत्यगात्मस्वरूपे एव
आत्मना
स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमार्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः
स्थितप्रज्ञः
विद्वान्
तदा उच्यते।
त्यक्तपुत्रवित्तलोकैषणः संन्यासी आत्माराम आत्मक्रीडः स्थितप्रज्ञ इत्यर्थः।।
किञ्च