Sbg 2.52 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.52।।
यदा
यस्मिन्काले
ते
तव
मोहकलिलं
मोहात्मकमविवेकरूपं कालुष्यं येन आत्मानात्मविवेकबोधं कलुषीकृत्य विषयं प्रत्यन्तःकरणं प्रवर्तते तत् तव
बुद्धिः व्यतितरिष्यति
व्यतिक्रमिष्यति अतिशुद्धभावमापत्स्यते इत्यर्थः।
तदा
तस्मिन् काले
गन्तासि
प्राप्स्यसि
निर्वेदं
वैराग्यं
श्रोतव्यस्य श्रुतस्य च
तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिभातीत्यभिप्रायः।।
मोहकलिलात्ययद्वारेण लब्धात्मविवेकजप्रज्ञः कदा कर्मयोगजं फलं परमार्थयोगमवाप्स्यामीति चेत् तत् श्रृणु