Sbg 2.50 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।2.50।।बुद्धियोगयुक्तस्तु श्रेष्ठ इत्याह बुद्धीति। सुकृतं स्वर्गादिप्रापकम् दुष्कृतं निरयादिप्रापकम् ते उभे इहैव जन्मनि परमेश्वरप्रसादेन जहाति त्यजति। तस्माद्योगाय तदर्थाय कर्मयोगाय युज्यस्व घटस्व। यतः कर्मसु यत्कौशलं बन्धकानामपि तेषामीश्वराराधनेन मोक्षपरत्वसंपादनचातुर्यं स एव योगः।