Sbg 2.50 scval
Sanskrit Commentary By Sri Vallabhacharya ।।2.50।।एतद्बुद्धियोगयुक्त एव निर्द्वन्द्वो भवतीत्याह बुद्धियुक्त इति। उभे पुण्यपापे स्वर्णलोहबन्धनतुल्ये इहैव जहाति। तस्माद्योगायोक्तस्वरूपाय युक्तो भव। योगो हि कर्मसु कौशलं निर्बन्धनतावृत्तिसाधनमिति। गुणाविष्करणम्।