Sbg 2.50 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.50।।
बुद्धियुक्तः
कर्मसमत्वविषयया बुद्ध्या युक्तः बुद्धियुक्तः सः
जहाति
परित्यजति
इह
अस्मिन् लोके उभे
सुकृतदुष्कृते
पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः
तस्मात्
समत्वबुद्धि
योगाय युज्यस्व
घटस्व।
योगो
हि
कर्मसु कौशलम्
स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिः ईश्वरार्पितचेतस्तया तत् कौशलं कुशलभावः। तद्धि कौशलं यत् बन्धनस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावात् निवर्तन्ते। तस्मात्समत्वबुद्धियुक्तो भव त्वम्।।
यस्मात्