Sbg 2.49 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.49।।
दूरेण
अतिविप्रकर्षेण अत्यन्तमेव
हि अवरम्
अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं
बुद्धियोगात्
समत्वबुद्धियुक्तात् कर्मणः जन्ममरणादिहेतुत्वात्। हे
धनञ्जय
यत एवं ततः योगविषयायां
बुद्धौ
तत्परिपाकजायां वा सांख्यबुद्धौ
शरणम्
आश्रयमभयप्राप्तिकारणम्
अन्विच्छ
प्रार्थयस्व परमार्थज्ञानशरणो भवेत्यर्थः। यतः अवरं कर्म कुर्वाणाः
कृपणाः
दीनाः
फलहेतवः
फलतृष्णाप्रयुक्ताः सन्तः यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः इति श्रुतेः।।
समत्वबुद्धियुक्तः सन् स्वधर्ममनुतिष्ठन् यत्फलं प्राप्नोति तच्छृणु