Sbg 2.47 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.47।।
कर्मण्येव अधिकारः
न ज्ञाननिष्ठायां
ते
तव। तत्र च कर्म कुर्वतः
मा फलेषु
अधिकारः अस्तु कर्मफलतृष्णा मा भूत्
कदाचन
कस्याञ्चिदप्यवस्थायामित्यर्थः। यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः एवं
मा कर्मफलहेतुः
भूः। यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत्। यदि कर्मफलं नेष्यते किं कर्मणा दुःखरूपेण इति
मा ते
तव
सङ्गः अस्तु अकर्मणि
अकरणे प्रीतिर्मा भूत्।।
यदि कर्मफलप्रयुक्तेन न कर्तव्यं कर्म कथं तर्हि कर्तव्यमिति उच्यते