Sbg 2.42 scram
Sanskrit Commentary By Sri Ramanuja ।।2.42।। याम् इमां पुष्पितां पुष्पमात्रफलाम् आपातरमणीयां वाचम् अविपश्चितः अल्पज्ञा भोगैश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति वेदवादरताः वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः न अन्यद् अस्ति इति वादिनः तत्सङ्गातिरेकेण स्वर्गा देः अधिकं फलं न अन्यद् अस्ति इति वदन्तः। कामात्मानः कामप्रवणमनसः स्वर्गपराः स्वर्गपरायणाः स्वर्गादिफलावसाने पुन र्जन्मकर्मा ख्य फलप्रदां क्रियाविशेषबहुलां तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुरां तेषां भोगैश्वर्यगतिं प्रति वर्तमानां याम् इमां वाचं ये प्रवदन्ति इति सम्बन्धः।