Sbg 2.41 scpur

From IKS BHU
Revision as of 17:31, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।2.41।।किञ्च। फलार्थं कर्मकर्तृ़णामनेकत्र बुद्धिर्भवति मदाज्ञात्वेन कर्तृ़णां मन्निष्ठत्वेनैकैव बुद्धिरिति भ्रमान्न वैपरीत्यशङ्केत्याह व्यवसायात्मिकेति। हे कुरुनन्दन सत्कुलोत्पन्न इह भक्तिमार्गे व्यवसायात्मिका भगवदाज्ञयैव करिष्यामीति रूपैकैव भवति। अव्यवसायिनां बहिर्मुखानामनिश्चितहृदयानां बुद्धयोऽनन्ताश्च भवन्ति फलार्थं बहुशाखाश्च भवन्ति। तत्र साङ्गत्वाभावात् प्रत्यवायादिसम्भावना स्यादेव भक्तानां तु साङ्गत्वान्नैव वैफल्यप्रत्यवायादिसम्भावना। अत एव भगवद्वाक्यम् मत्कर्म कुर्वतां पुंसां काललोपो भवेद्यदि। तत्कर्म तस्य कुर्वन्ति तिस्रः कोट्यो महर्षयः इति।