Sbg 2.41 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।2.41।।एवं माहात्म्याभिधानव्याजेनास्य कर्मणः सर्वकर्मभ्यो वैषम्यमुक्तम् अथोपदेष्टव्यतया प्रतिज्ञातां तद्विषयबुद्धिं काम्यकर्मविषयबुद्धिभ्यो हेतुफलवैषम्येण विशिंषन्नुपदिशतीत्याह काम्येति।इह इति सङ्गृहीतमाह शास्त्रीये सर्वस्मिन् कर्मणीति। अविहिताप्रतिषिद्धलौकिककर्मणां भिन्नफलत्वात्तद्विषयेऽप्यैक्यं मा भूदित्यत उक्तंशास्त्रीय इति। यद्वा सङ्ग्राहकोपाधिकथनमिदम्। प्रस्तुतयुद्धादिमात्रव्युदासायसर्वस्मिन्निति। नित्यनैमित्तिककाम्यतदवान्तरविधाभेदसङ्ग्रहः। नानाकर्मविषयनानाबुद्धेः कथमेकत्वमिति शङ्कायां विशेषणप्रकरणसामर्थ्यफलितेन विषयेण बुद्धिं विशिनष्टि मुमुक्षुणेति। व्यवसायशब्देन कृत्यध्यवसायभ्रमं निरस्यति निश्चय इति। पौनरुक्त्यव्युदासाय विषयं समासांशोत्तरपदलक्ष्यं च दर्शयन् मुमुक्षुणेत्युक्तमुपपादयति सा हीति।व्यवसायात्मिका इत्येतद्व्यवच्छेद्यमाह काम्येति।
ननु देहातिरिक्तपारलौकिकात्मज्ञानमन्तरेण कथं
देहान्तरानुभाव्यस्वर्गादिसाधनयागादिमहाप्रयासानुष्ठानमित्यत्राह तत्र हीति। कामनयाऽधिक्रियत इति वा कामेनाधिकारो यत्रेति वा कामाधिकारः काम्यकर्म तदधिकारित्वं वा। यद्वा तच्छास्त्रम्। अधिकारश्च मदभिलषितसाधनत्वान्मदर्थमिदं कर्मेत्यभिमानः। देहातिरिक्तात्मशब्देन देहान्तरपरिग्रहार्हस्थिरत्वमभिप्रेतम् अन्यथाऽतिरेकमात्रनिर्णयेऽपि देहसमकालनाशित्वभ्रमे सति पारलौकिककाम्यकर्माननुष्ठानप्रसङ्गात्। मात्रशब्दाभिप्रेतं विवृणोति नात्मेति। आत्मस्वरूपयाथात्म्यं चात्र नित्यत्वस्वयम्प्रकाशत्वानन्दत्वभगवत्प्रकारत्वस्वाभाविकापहतपाप्मत्वादिरूपमभिप्रेतम्। ननु देहोत्तरकालमनुभाव्ययोः स्वर्गापवर्गयोः क्वचिदात्मास्तित्वज्ञानमात्रमपेक्षितम्। क्वचित्तद्याथात्म्यनिश्चय इति कुतोऽयं विवेक इत्यत्राह स्वरूपेति। अयमभिप्रायः कामाधिकारे याथात्म्यनिश्चयोऽनुपपत्त्या वा शास्त्रबलाद्वाऽपेक्ष्यते। पूर्वत्रापि याथात्म्यनिश्चयाभावे किं स्वर्गादिफलेच्छैव न स्यात् उत तत्साधनानुष्ठानम् उत तत्फलानुभवः। न प्रथमः सुखरूपतया प्रमाणसिद्धेषु स्वरसत इच्छासिद्धेः। न द्वितीयः तदर्थिनस्तदनुकूलकरणकलेवरादिमतः स्वस्य तत्फलकालेऽप्यवस्थानं निश्चिन्वतःपामरकृष्यादिन्यायेनानुष्ठानोपपत्तेः। न तृतीयः अविकलानुष्टितोपायस्य फलोत्पत्तेरन्यनिरपेक्षत्वात् अनुभवार्थमेवोत्पन्नतया च तदनुभवसिद्धौ सार्वभौमादिभोगेष्विव स्वर्गादिभोगेष्वनुभववेलायामात्मयाथात्म्यानुभवनैरपेक्ष्यात्। तदेतदखिलमुक्तंसम्भवादित्यन्तेन। अनुपपत्त्यभावोऽत्र सम्भवः। नात्र शास्त्रबलादिति वक्तुं युक्तम् शास्त्रमपि दृष्टार्थं वा विदधीत अदृष्टार्थं वा। अत्र केवलदृष्टार्थत्वं दत्तोत्तरम्। अन्यत्रापि न तावद्यागादिकरणशरीरनिर्वर्तकत्वं तदनालोचनात्। नापि कर्तुरात्मनः संस्कारतयाऽनुप्रवेशः कामाधिकारप्रकरणेषु प्रोक्षणादिविधिवत्आत्मानं तत्त्वतो जानीयात् इति विध्यभावाद्वेदान्तविहितज्ञानस्यातिशयितफलान्तरार्थत्वादिना कर्मशेषत्वाभावस्य शारीरके समर्थितत्वात्। आत्मतत्त्वानभिज्ञानामपि च स्वर्गादिफलं प्रतिपादयन्ति हि प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येऽभिनन्दन्ति मूढाः मुं.उ.1।2।7 इत्याद्याः श्रुतयः।यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः