Sbg 2.36 scneel
Sanskrit Commentary By Sri Neelkanth ।।2.36।।किञ्च अवाच्यवादान् वक्तुमयोग्यान् शब्दान्षण्ढतिलोऽर्जुन इत्यादीन्। सामर्थ्यं निन्दन्तः धिगस्य शौर्यं यो भीष्मादिभयात् पलायित इति। इदं वचनं मरणादप्यधिकं दुःखम्। इतोऽन्यद्दुःखतरमधिकं दुःखं किं। न किमपीत्यर्थः।