Sbg 2.36 scram
Sanskrit Commentary By Sri Ramanuja ।।2.36।।शूराणाम् अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयाद् अस्मत्संनिधानाद् अन्यत्र हि अस्य सामर्थ्यम् इति तव सामर्थ्यं निन्दन्तः शूराणाम् अग्रे अवाच्यवादान् च बहून् वदिष्यन्ति तव शत्रवो धार्तराष्ट्राः ततः अधिकतरं दुःखं किं तव एवंविधावाच्यश्रवणात् मरणम् एव श्रेयः इति त्वम् एव मन्यसे।
अतः शूरस्य आत्मना परेषां हननम् आत्मनो वा परैः हननम् उभयम् अपि श्रेयसे भवति इति आह