Sbg 2.36 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.36।।
अवाच्यवादान्
अवक्तव्यवादां
श्च बहून्
अनेकप्रकारान्
वदिष्यन्ति तव अहिताः
शत्रवः
निन्दन्तः
कुत्सयन्तः
तव
त्वदीयं
सामर्थ्यं
निवातकवचादियुद्धनिमित्तम्। ततः तस्मात् निन्दाप्राप्तेर्दुःखात्
दुःखतरं नु किम्
ततः कष्टतरं दुःखं नास्तीत्यर्थः।।
युद्धे पुनः क्रियमाणे कर्णादिभिः