Sbg 2.35 scanand
Sanskrit Commentary By Sri Anandgiri ।।2.35।।इतश्च त्वचा युद्धं कर्तव्यमित्याह किञ्चेति। प्राणिषु कृपया नाहं युद्धं करिष्यामीत्याशङ्क्याह भयादिति। महारथानेव विशिनष्टि येषां चेति। दुर्योधनादिभिस्तवोपहास्यतानिरसनाय संग्रामे प्रवृत्तिरवश्यंभाविनीत्यर्थः।