Sbg 2.34 scram
Sanskrit Commentary By Sri Ramanuja ।।2.34।।न केवलं निरतिशयसुखकीर्तिहानिमात्रं पार्थो युद्धे प्रारब्धे पलायित इति अव्ययां सर्व देशकालव्यापिनीम् अकीर्तिं च समर्थानि असमर्थानि सर्वाणि भूतानि कथयिष्यन्ति ततः किमिति चेत् शौर्यवीर्यपराक्रमादिभिः सर्व संभावितस्य तद्विपर्ययजा हि अकीर्तिः मरणाद् अतिरिच्यते। एवंविधाया अकीर्तेः मरणम् एव तव श्रेयः इत्यर्थः।
बन्धुस्नेहात् कारुण्याच्च युद्धात् निवृत्तस्य शूरस्य मम अकीर्तिः कथम् आगामिष्यति इति अत्राह