Sbg 2.34 scsh
Sanskrit Commentary By Sri Shankaracharya ।।2.34।।
अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते
तव
अव्ययां
दीर्घकालाम्। धर्मात्मा शूर इत्येवमादिभिः गुणैः
संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते
संभावितस्य च अकीर्तेः वरं मरणमित्यर्थः।।
किञ्च