Sbg 2.32 scvv

From IKS BHU
Revision as of 17:28, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।2.32।।पुनरपि प्राणिमारणस्यापि युद्धस्य प्रशंसामुखेनाधर्मभ्रममुन्मूलयति यदृच्छयेति।यदृच्छयोपपन्नं इत्यत्राहेतुत्वादिभ्रमव्युदासायाह अयत्नोपनतमिति। प्राक्तननिरतिशय पुण्यविपाकलभ्यत्वादिदानीमयत्नोपनतत्वम्।निरतिशयसुखोपायभूतमिति। स्वर्गशब्दो हियस्मिन्नोष्णं न शीतंयन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं तत्सुखं स्वर्गपदास्पदम् इति निरतिशयसुखविशेषे व्युत्पन्नः। देशविशेषस्तु तादृशसुखभोगस्थानतया स्वर्गः। धर्माणां च स्वतो निरतिशयसुखसाधनत्वं स्वभावः। फलाभिसन्ध्यादिलक्षणप्रतिबन्धकवशादन्यथात्वमिति च्विप्रत्ययमप्रयुञ्जानस्य भावः। अपावृतशब्दाभिप्रेतं निर्विघ्नत्वम्।सुखिनः इत्यस्यपुण्यवन्त इति प्रतिपदम्। न हि सुखमेवेदृशयुद्धलाभहेतुः। अतोऽत्र


सुखशब्देन सुखसाधनं लक्ष्यत इति भावः। यद्वाऽत्र सुखिशब्दः सुखयोग्यत्वलक्षणसम्बन्धपरः। तद्योग्यत्वं च पुण्यवत्त्वमेवेति भावः।