Sbg 2.29 scang
Sanskrit Commentary By Sri Abhinavgupta ।।2.29।।अपि च
अव्यक्तादीनीति। नित्यः सन्तु अनित्या वा यस्तावदस्य शोचकस्तं प्रत्येष आदावव्यक्तः अन्ते चाव्यक्तः। मध्ये तस्य व्यक्तता विकारः ( N omit विकारः) इति। प्रत्युत विकारे शोचनीयं ( N शोचनीयस्वभावे) न स्वभावे। किं च यत् (N omits यत्) तन्मूलकारणं किञ्चिदभिमतं तदेव यथाक्रमं (S तथाक्रमविचित्र) विचित्रस्वभावतया स्वात्ममध्ये दर्शिततत्तदनन्तसृष्टिस्थितिसंहृतिवैचित्र्यं (S सृष्टिप्रतिसंहृति) नित्यमेव। तथास्वभावेऽपि कास्य (S स्वभावमिति कास्य) शोच्यता।