Sbg 2.27 scpur
Sanskrit Commentary By Sri Purushottamji
।।2.27।।ननु स्वसमानाभावान्निर्बले तु शोकः कर्तव्य एवेति चेत्तत्राह जातस्येति। जातस्य देहस्य मृत्युर्ध्रुवः मृतस्य ध्रुवं जन्म भवतीत्यर्थः।अत्रायमर्थः जातस्य गृहीतजन्मनो येन मृत्युर्निर्मितस्तस्य तेनैव मृत्युर्ध्रुवो निश्चितस्तस्माद्येषां मृत्युस्त्वयैव निर्मितः स च तथैव भविष्यति। तस्माद्यद्यथा ईश्वरनिर्मितं तत्तथैव भविष्यतीत्यपरिहार्ये सर्वथा भाव्येऽर्थे त्वं न शोचितुं योग्योऽसीत्यर्थः। हीति युक्तोऽयमर्थः। ईश्वरकृतं कोऽन्यथा कर्तुं समर्थः।