Sbg 2.21 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।2.21।।य एनम् 2।19 इत्युक्तविपर्ययपरेवेद इत्यादिश्लोकेनित्यम् इति परमसाध्यानुवादः।अविनाशिनम् इत्यादिकं तु तद्धेतुरित्यभिप्रायेणाह एवमिति। व्ययशब्देनात्र जन्मनाशव्यतिरिक्तविकारा विवक्षिताः। अपक्षय एव वा छेदनादियोग्यावयवविश्लेषादिर्वा।कमिति। निर्धारणस्यानिर्धारितानेकव्यक्तिसापेक्षत्वादाहदेवमनुष्येत्यादि। घातयतिहन्त्योः पौनरुक्त्यमाशङ्क्य बुद्धिस्थक्रमेणार्थमाह कथं नाशयतीत्यादि। वेदितुर्विशेषेण हन्तृत्वादिनिषेधो न युज्यते। आत्मनो नित्यत्वे तदवेदितुरपि तद्धननायोगादित्याशङ्कापरिहाराय फलितार्थं वदन् प्रकृतेन सङ्गमयति एतानिति। नात्र श्लोके हन्तृत्वादिमात्रं निषिध्यते किन्तु तत्प्रयुक्तं शोचनम् तदुत्पादकप्रकारप्रतिषेधयैव ह्यत्र कथंशब्द इति
भावः।