Sbg 2.19 scang

From IKS BHU
Revision as of 17:24, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।2.19।।अन्तवन्त इति। देहाः निरुपाख्याताकले (S निरुपाख्यकाले) स्थूलविनाशयोगिनः तदन्यथानुपपत्तेरेव च विनाशिनः प्रतिक्षणमवस्थान्तरभागिनः। यदुक्तम्


अन्ते पुराणतां (S पुराणं दृष्ट्वा) दृष्ट्वा प्रतिक्षणं नवत्वहानिरनुमीयते इति। मुनिनापि


कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे।


वर्तते सर्वभावेषु सौक्ष्म्यात्तु न विभाव्यते।।


(M Santi. Moksa. Ch. 308 verse 121 ) इति।


पृथगर्थानामति पृथगर्थक्रियाकारित्वादिति यावत्। देहा अन्तवन्तः विनाशिनश्च। आत्मा तु नित्यः यतोऽप्रमेयः। प्रमेयस्य तु जडस्य परिणामित्वम् न तु अजडस्य चिदेकरूपस्य स्वभावान्तरायोगात्। एवं देहा नित्यमन्तवन्त इति शोचितुमशक्याः। आत्मा नित्यमविनाशी तेन न शोचनार्हः। तन्त्रेण अयमेकः कृत्यप्रत्ययो द्वयोरर्थयोर्मुनिना दर्शितः अशोच्यान् इति।