Sbg 2.17 scdhan

From IKS BHU
Revision as of 17:24, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।2.17।।किं तत्सदित्याकाङ्क्षायामाह अविनाशि त्विति। न विनष्टुं शीलमस्येति तत् जानीहि। तुशब्दोऽसतो व्यावृत्त्यर्थः। किं येनेदं सर्वं व्याप्तं निरवयवत्वात् स्वरुपेण देहादिवत् आत्मीयाभावात् धनादिहान्या देवदत्तवच्च न व्येतीत्यव्ययं तस्यास्याव्ययस्य ब्रह्मणः स्वस्वरुपस्य विनाशमभावं बाधं न कश्चित् ईश्वरोऽपि कर्तुमर्हति शक्नोति। स्वात्मनि क्रियाविरोधात्। ननु नन्वेतादृशस्य सतो ज्ञानाद्भेदेपरिच्छिन्नत्वापत्तेर्ज्ञानात्मकत्वसभ्युपेयं तच्चानाध्यासिकं अन्यथा जडत्वापत्तेः। तथा चानाध्यासिकज्ञानरुपस्य सतो धात्वर्थत्वादुत्पत्तिविनाशवत्त्वं घटज्ञानमुत्पन्नं घटज्ञानं नष्टमिति प्रतीतेश्च। एवं चाहं घटं जानामीति प्रतीतेस्तस्य साश्रयत्वं सविषयत्वं चेति देशकालवस्तुपरिच्छिन्नत्वास्फुरणस्य कथं तद्रूपस्य सतो देशकालवस्तुपरिच्छिन्नशून्यत्वमित्याशङक्याह अविनाशि। त्रिविधपरिच्छेदशून्यं तु एव तत्सद्रूपं स्फुरणं विद्धि। किं तत्। येनेदं सर्वं ततं रज्जुशकलेनेव सर्पधारादि स्वस्मिन्समावेशितं यस्माद्विनाशं परिच्छेदमव्ययस्यापरिच्छिन्नस्यास्य कोऽप्याश्रयो वा विषयो वा इन्द्रियसंनिकर्षादिरुपो हेतुर्वा न कर्तुमर्हतीति। भाष्यकृद्भिः कुतो न व्याख्यातमितिचेन्मूलाक्षरैरुक्तशङ्कोत्तरस्य घटादिज्ञानस्य व्यावृत्त्यात्मकस्यात्मन्यध्यस्तत्वेऽपि तस्य स्वप्रकाशत्वान्न जडत्वं व्यावृत्त्योदेरुत्पत्त्यादिमत्त्वेऽपि तस्य न तत्त्वमित्येवमादिरुपस्याप्रतीतेः उत्तरत्रान्तवन्त इमे देहा इत्यस्य स्थानेऽन्तवत्य इमा वृत्तय इति वक्तव्यत्वापत्तेः। एतेषां नाशो भविष्यतीत्यर्जुनस्य भ्रमनिराकरणायात्मसंसृष्टदेहाद्यसत्यत्वप्रतिपादनस्यावश्यकत्वेनाश्रयत्वेत्यादेरार्थिकत्वाच्चेति गृहाण। किंच शुक्त्यध्यस्तरजतज्ञानस्य कल्पितत्वत्सदव्यस्तघटादिज्ञानस्याप्यध्यस्तत्वेन कल्पितत्वस्य सद्बुद्धिरसद्बुद्धिरित्यादिभाष्येण प्रदर्शितत्वादुक्तशङ्कानुत्थानमित्यभिप्रेत्याचार्यैरेवं न व्याख्यातमिति दिक्।