Sbg 2.17 scval

From IKS BHU
Revision as of 17:24, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

  Sanskrit Commentary By Sri Vallabhacharya ।।2.17।।क्षयविनाशौ निराकरोति अविनाशीति। पुनः तदात्मवस्तु अविनाशि विद्धि। किम्भूतं येन सर्वमिदं देहादि विश्वं ततं व्याप्तं असदपि विनश्यदवस्थमपि सदिति व्यवह्रियते। अव्ययस्य क्षयरहितस्यास्योपलभ्यमानस्य तदुत्तरतोप्यदृश्यमानं विनाशं कर्त्तुं कश्चिज्जनः शस्त्राग्न्यादिभिश्च नार्हति।