Sbg 2.17 scram

From IKS BHU
Revision as of 17:24, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

  Sanskrit Commentary By Sri Ramanuja ।।2.17।। तद् आत्मतत्त्वम् अविनाशि इति विद्धि येन आत्मतत्त्वेन चेतनेन तद्व्यतिरिक्तम् इदम् अचेतनतत्त्वं सर्वं ततं व्याप्तम्। व्यापकत्वेन निरतिशयसूक्ष्मत्वाद् आत्मनो विनाशानर्हस्य तद्व्यतिरिक्तो न कश्चित् पदार्थो विनाशं कर्तुम् अर्हति तद्व्याप्यतया तस्मात् स्थूलत्वात्। नाशकं हि शस्त्रं जलाग्निवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति। मुद्गरादयः अपि हि वेगवत्संयोगेन वायुम् उत्पाद्य तद्द्वारेण नाशयन्ति अत आत्मतत्त्वम्


अविनाशि।

देहानां तु विनाशित्वम् एव स्वभाव इत्याह