Sbg 2.16 scvv

From IKS BHU
Revision as of 17:23, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।2.16।।नासतः इति श्लोकं व्यवहितप्रकृतस्थापनोपक्रमतयाऽवतारयति यत्त्विति।स्वाभाविकं परिणामि स्वभावस्यावश्यम्भावि न तु हेतुनिरपेक्षं शोकानिमित्तं शोकनिमित्तविरोधि शोकाभावनिमित्तमित्यर्थः। इतःपूर्वं स्वभावकथनमात्रत्वात्उपपादयितुमित्युक्तम्। अस्यापि श्लोकस्योपपादनार्थं प्रतिज्ञामात्ररूपत्वात्आरभत इत्युक्तम्। सदसद्भावाभावादिशब्दानां प्रकरणोचितमर्थविशेषं विवृण्वन् व्याख्याति असत इति। असतः सतश्चेति व्याख्येयम्। तस्य प्रकरणादिविशेषितार्थप्रतिपादनं देहस्यात्मन इति।अनयोरिति निर्देशफलितमुक्तं उपलभ्यमानयोरिति। तत्त्वदर्शनस्यतुशब्दद्योतितामुपलम्भानतिवृत्तिमभिप्रेत्याह यथोपलब्धितत्त्वदर्शिभिरिति। एतेन तद्ब्रह्म तद्भावस्तत्त्वमितिशङ्करोक्तमपहसितम्। सच्छब्दनिर्दिष्टस्य नित्यस्य विनाशायोगादन्तशब्दस्य निर्णयार्थत्त्वम्। तत्र शब्दवृत्तिप्रकारम् इह देहात्मविवेकप्रकरणेतत्त्वदर्शिभिरित्यादिसन्निधौ च तस्यैवौचित्यं चाह निर्णयान्तत्वादिति। ननु देहस्य सद्भावो न विद्यत इत्ययुक्तं प्रत्यक्षादिविरोधात् आत्मनोऽसद्भावो न विद्यत इति चायुक्तम् असदेवेदमग्र आसीत् छां.उ.6।2।1 इत्यादिसकलनिषेधदशायां तस्याप्यसच्छब्दवाच्यत्वात्। अवस्थाविशेषापेक्षयाऽपि सत्त्वमसत्त्वं च देहात्मनोर्द्वयोरपि समानम्। अतो भाष्यान्तरवत् सत्कार्यवादादिविषयतया अयं श्लोको व्याख्येय इत्यत्राह देहस्येति।अचिद्वस्तुनः चेतनस्य इति पदाभ्यां सत्त्वासत्त्वयोः स्वभावत्वे हेतुः चिदचिद्विषयतया सदसच्छब्दयोः प्रयोगश्च सूचितः।


नन्वेवमपि देहात्मनो सदसत्त्वचोद्यं न परिहृतमित्यत्राह विनाशेति। हिशब्देन प्रयोगप्रसिद्धिर्द्योतिता तामेव दर्शयति यथोक्तमिति। दशश्लोक्यां वस्त्ववस्त्वस्तिनास्तिसत्यासत्यशब्दानां शारीरकभाष्ये पुराणोपक्रमोपसंहारादिना तत्प्रकरणोपक्रमोपसंहारादिना मध्येमही घटत्वं घटतः कपालिका वि.पु.2।15।42 इत्यादिना च सविकारत्वेनैवावस्तुत्वोपपादनात् श्रुतिस्मृत्यन्तरप्रत्यक्षाद्यनुरोधाच्च निर्विकारसविकारतया नित्यानित्यचेतनाचेतनविषयत्वं स्थापितम्। व्यवहारार्हत्वानर्हत्वादिविषयौ सदसच्छब्दौ तयोः परमार्थापरमार्थविषयसत्यासत्यशब्दाभ्यां कथमैकार्थ्यमिति शङ्कायां नाशानाशयोरेव परमार्थापरमार्थादिशब्दप्रयोगहेतुत्वे महर्षिवचनमुपादत्ते अनाशीति। विनाशोपलक्षितपरिणामवृद्ध्यादिभिः पूर्वावस्थाप्रहाणेन संज्ञान्तरयोगादेव अवस्तुशब्दवाच्यत्वं तदभावाच्च वस्तुशब्दवाच्यत्वमित्यस्मिन्नर्थे स्पष्टोक्तिं दर्शयति यत्त्विति। अत्रोत्तरश्लोकद्वयैकार्थ्याच्चायमेवार्थ इत्याह अत्रापीति। एतेन क्वचिच्चेतनविषयासच्छब्दोऽपि देवादिनामरूपप्रहाणाद्यवस्थाविशेषापेक्षयेत्युक्तं भवति। स्वरूप तस्तु निर्विकारत्वात् सच्छब्दवाच्यत्वमेव श्लोकयोः व्युत्क्रमेणोपपादनंनासतः इति क्रमापेक्षया। ततः किमित्यत्राह


तदेवेति। प्रतिज्ञातस्यार्थस्य हेतुर्ह्यनन्तरं वाच्यः। तद्धेतुत्वं चात्र स्वरसतोऽवगम्यमानं परित्यज्यार्थान्तरपरत्वं व्याख्यातुं न युक्तमिति भावः।

कुदृष्टिकल्पितव्याख्यां दूषयति अत्रेति। न ह्यत्र वैशेषिकादिनिरासः एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनं साङ्ख्यसिद्धान्तोपन्यासादिर्वा प्रक्रियते। न च सत्कार्यवादेन देहात्मविवेकोपपादनं शोकशान्तिर्वा सिद्ध्येत्। सर्वस्य नित्यत्वाच्चेतनानामपि नित्यत्ववर्णनमसिद्धस्यात्यन्तासिद्धेन साधनमिति भावः। उक्तार्थपरत्वे महाप्रकरणसङ्गतिमाह देहेति। यदज्ञानान्मोहः तस्यैव हि ज्ञापनं तन्निवृत्तये स्यादिति भावः। अत्रतन्मोहशान्तये इति द्वितीयाध्यायार्थसङ्ग्रहश्लोकः सूचितः। सत्कार्यवादे पूर्वोत्तरविरोधमभिप्रयन् स्वोक्तस्यावान्तरप्रकरणसङ्गतिमप्याह स एवेति वाक्यद्वयेन।अनन्तरमिति। नहि मात्रयाऽप्यन्यव्यवधानमस्तीति भावः।प्रस्तुत उपपाद्यत इतिशब्दाभ्यामपौनरुक्त्यं दर्शितम्। उपसंहरति अत इति।यथोक्तं एवेत्यवधारणेनान्येषामपि व्याख्यातृ़णामसत्प्रतिभासा निवर्त्यन्ते। यत्तूक्तं यज्ञस्वामिना असच्छब्देनाशुभं रजस्तमस्तकार्यं दुःखादिकं गृह्यते। सच्छब्देन तु सत्त्वतत्कार्यसुखादिकम्। भावाभावशब्दाभ्यां चाभ्युदयानभ्युदयपर्यायौ भूत्यभूती। उभयोरपि दृष्टोऽन्त इति च राशिद्वयस्य नश्वरत्वमुच्यते। ततश्च पूर्वोक्तद्वन्द्वतितिक्षाहेतुभूतदुःखात्मकत्वनश्वरत्वयोरेव प्रपञ्चनं कृतं भवति इति। तदयुक्तम् रजस्तमःप्रभृतीनामसदादिशब्दैरुपादाने प्रकरणाद्ययोगात् एतदभिप्रायेण चस एव प्रस्तुत इत्युक्तम्। ननुमात्रास्पर्शास्तु इति श्लोके मात्राशब्देन सत्त्वादिगुणा उच्यन्ते। तथा च कपिलासुरीयके गुणाः गुणमात्राः गुणलक्षणं गुणा अवयवं सत्वं रजस्तम इति गुणा इत्युच्यन्ते। सत्त्वादिगुणानां गुणाश्च तेषां मात्रा अपदिश्यन्ते। तत्र तत्त्वदर्शनताभयनाशस्वभावताप्रसन्नेन्द्रियतासुखस्वप्नबोधनतेति सत्त्वमात्रा इत्यादौ उपकरणेषु च मात्राशब्दः प्रयुज्यते।लघुमात्रः परिव्रजेत् इत्यादिषु मात्राशब्देन शब्दादिविषयग्रहणे तु शीतोष्णशब्दपौनरुक्त्यं च स्यात् इति। तदप्यसत् मात्राशब्दस्य सत्त्वादिषु मुख्यप्रयोगाभावादन्यत्रापि प्रसिद्ध्यभावादत्राप्रसिद्धार्थस्वीकारहेत्वभावाच्च। शीतोष्णशब्दपौनरुक्त्यं तु सामान्यविशेषपरत्वात् प्रदर्शनार्थत्वाच्च परिहृतम्। अस्तु तर्हि प्रस्तुतयोः सुखदुःखयोरेव सदसच्छब्दाभ्यां ग्रहणम्। मैवं तयोरेव अभ्युदयानभ्युदयरूपत्वविवक्षायां तद्धेतुतया व्यतिरेकनिर्देशायोगात्। सुखदुःखयोर्दुःखसुखकारणत्वनिर्देशश्च लोकवेदविरुद्धः। सुखादिनैश्वर्यनिवृत्त्यादिकथनं च प्रस्तुतानुपयुक्तम्। एवं योजनान्तरेष्वपि दूषणमूह्यम्। अतो महाप्रकरणपूर्वापरादिसङ्गतेर्यथोक्त एवार्थः।