Sbg 2.16 scram

From IKS BHU
Revision as of 17:23, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।2.16।। असतो देहस्य सद् भावो न विद्यते सतः च आत्मनो न असद् भावः। उभयोः देहा त्मनोः उपलभ्यमानयोः यथोपलब्धि तत्त्वदर्शिभिः अन्तो दृष्टः।

निर्णयान्तत्वात् निरूपणस्य निर्णय इह अन्तशब्देन उच्यते। देहस्य अचिद्वस्तुनोः असत्त्वम् एव स्वरूपम् आत्मनः चेतनस्य सत्त्वम् एव स्वरूपम् इति निर्णयो दृष्टः इत्यर्थः।

विनाशस्वभावो हि असत्त्वम् अविनाशस्वभावश्च सत्त्वम्। यथा उक्तं भगवता पराशरेणतस्मान्न विज्ञानमृतेऽस्ति किञ्चित् क्वचित्कदाचिद्द्विज वस्तुजातम्। (वि0 पु0 2।12।43)सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् (वि0 पु0 2।12।45)अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते। तत्तु नाशि न संदेहो नाशिद्रव्योपपादितम्।। (वि0 पु0 2।14।24)यत्तु कालान्तरेणापि नान्यां संज्ञामुपैति वै। परिणामादिसंभूतां तद्वस्तु नृप तच्च किम्।। (वि0 पु0 2।13।100) इति

अत्रापिअन्तवन्त इमे देहाः (गीता 2।18)अविनाशि तु तद्विद्धि (गीता 2।17) इति उच्यते। तदेव सत्त्वासत्त्वव्यपदेशहेतुः इति गम्यते। अत्र तु सत्कार्यवादस्य असङ्गत्वात् न तत्परोऽयं श्लोकः। देहात्मस्वभावाज्ञानमोहितस्य तन्मोहशान्तये हि उभयोः नाशित्वानाशित्वरूपस्वभावविवेक एव वक्तव्यः।

स एवगतासूनगतासूंश्च नानुशोचन्ति (गीता 2।11) इति प्रस्तुतः। स एवअविनाशि तु तद्विद्धि (गीता 2।17)अन्तवन्त इमे देहाः (गीता 2।18) इत्यनन्तरम् उपपाद्यते अतो यथोक्त एव अर्थः।

आत्मनः तु अविनाशित्वं कथम् उपपद्यते इति अत्र आह