Sbg 2.2 scdhan
Sanskrit Commentary By Sri Dhanpati ।।2.2।। किं तद्वाक्यमित्यत आह श्रीभगवानिति। कुतो हेतोः त्वा त्वां शूरशिरोमणिमिदं स्वधर्मभूताद्युद्धात्पराङभुखत्वं कश्मलं मलिनं विषमेऽसमये समुपस्थितं संप्राप्तम्। यतोऽनार्यैर्दुष्टैर्जुष्टं सेवितमतएव दृष्टादृष्टफलरहितमित्याह। अस्वर्ग्यमकीर्तिकरमिति विशेषणद्वयेन स्वर्गानर्हं प्रत्यवायजनकत्वात्। अकीर्तिकरमयशस्यं किं मोक्षेच्छातः किंवा स्वर्गेच्छातः अथवा कीर्तिच्छातः इति किंशब्देनाक्षिप्यते। हेतुत्रयमपि निषेधयति। त्रिभिर्विशेषणैरुत्तरार्धेन। आर्यैर्मुमुक्षुभिर्न जुष्टमसेवितमिति केचित् न आर्यैर्जुष्टम्। यत्त्वार्यैरजुष्टमिति विग्रहो दर्शितस्तत्त्वर्थैक्येऽपि पदव्युत्क्रमदोषादुपेक्ष्यमित्यन्ये स्वधर्मयुद्धं कुर्वन्मलात्मकं पापं न प्राप्स्यसीति द्योतयन्नाह अर्जुनेति। अर्जुननाम्ना प्रख्यातस्य तव नैतद्युक्तमित्येके। हे अर्जुन स्वच्छस्वभाव तव नैतद्युक्तमिति भाव इत्यन्ये।