Sbg 1.41 scanand
Sanskrit Commentary By Sri Anandgiri ।।1.41।।वर्णसंकरस्य दोषपर्यवसायितामादर्शयति संकर इति। कुलक्षयकराणां दोषान्तरं समुच्चिनोति पतन्तीति। कुलक्षयकृतां पितरो निरयगामिनः संभवन्तीत्यत्र हेतुमाह लुप्तेति। पुत्रादीनां कर्तृ़णामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा। ततश्च प्रेतत्वपरावृत्तिकारणाभावान्नरकपतनमेवावश्यकमापतेदित्यर्थः।