Sbg 1.28 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।1.28।। किमब्रवीदित्यपेक्षायामाह दृष्ट्वेममित्यादि यावदध्यायसमाप्ति। हे कृष्ण योद्धुमिच्छन्तं पुरतः सम्यगवस्थितमिमं बन्धुजनं दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते। किंच मुखं परि समंताच्छुष्यति निर्द्रवीभवति।