Sbg 1.26 scdhan
Sanskrit Commentary By Sri Dhanpati ।।1.26।।एवं स्वसारथ्ये दृढतया स्थितेन स्वोक्तकारिणा भगवतोक्तोऽर्जुनस्तथैव कृतवानित्याह तत्रेति। तत्र समवेतान्कुरुन्पश्येति भगवदभ्यनुज्ञाने संवृत्ते सति तत्र सेनयोरुभयोरपि स्थितान्पार्थोऽपश्यदिति वा तत्रपदान्वयः। एतान्समवेतान्कुरुन्दृष्ट्वा स्त्रीस्वभावौ शोकमोहावङ्गीकुर्विति भगवदभिप्रायमर्जुनो ज्ञात्वा तानपश्यदिति सूचयितुं पार्थ इत्युक्तम्। पितृ़न्पितृव्यान्भूरिश्रवआदीन। अथशब्दस्तथाशब्दार्थे। तथा पितामहान्भीष्मप्रमुखान् आचार्यान्द्रोणादीन् मातुलान् शल्यप्रभृतीन् भ्रातृ़न्भीमदुर्योधनाद्यान् पुत्रानभिमन्युलक्ष्मणप्रभृतीन् पौत्रान् लक्ष्मणादिपुत्रान् सखीनश्वत्थामादिकान्।