Sbg 1.23 scpur
Sanskrit Commentary By Sri Purushottamji
।।1.23।।अवेक्ष इति। किञ्चदुर्बुद्धेः धार्तराष्ट्रस्येति भगवत्प्रतिपक्षत्वेन स्वपराजयमननुसन्दधानस्यान्धस्य
पुत्रस्तस्य प्रियं चिकीर्षवस्तेप्यन्धा एव तथाभूता येऽत्र समागताः सम्यक्प्रकारेण युद्धार्थमागतास्तान् योत्स्यमानान् युद्ध्यमानानहं अवेक्षे तावन्मे रथं सेनयोर्मध्ये स्थापयेति पूर्वेणैव सम्बन्धः। तत्र मध्ये रथस्थापने मम भयं तु नास्त्येव यतस्त्वमच्युतोऽसि। एवं चतुर्भिर्युद्धोपमोऽप्युक्तः।