Sbg 1.18 scdhan
Sanskrit Commentary By Sri Dhanpati ।।1.18।।सौभद्रोऽभिमन्युश्च महाबाहुः। परमेष्वासादिविशेषणचतुष्टयं प्रत्येकं संबध्यत इत्येके। पृथिवीपतित्वेन पृथिवीवद्दुःखं सोढुं योग्योऽसीति सूचितम्। पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्राय इति केचित्।