Sbg 1.16 scdhan
Sanskrit Commentary By Sri Dhanpati ।।1.16।।एतेषां प्रवृत्तिमनुमोदयन् युधिष्ठोरोऽपि शङ्खपूरणे प्रवृत्त इत्याह अनन्तविजयमिति। शत्रूञ्जित्वा
निष्कण्टकराज्यलाभस्तस्यैव भविष्यतीति द्योतनार्थं राजेति पदम्। कुन्त्या दुःखं राज्यलाभेनापाकरिष्यतीति कुन्तीपुत्रत्वेन ध्वनितम्। युद्धे सर्वाञ्जित्वायमेव स्थिरो भविष्यतीति सूचनाय युधिष्ठिर इति। कुन्तीपुत्रः कुन्त्या महता तपसा धर्ममाराध्य लब्धः। स्वयं राजसूययाजित्वेन मुख्यो राजेति भाव इति केचित्। ज्येष्ठभ्रातृ़णां मार्गं नकुलसहदेवावनुसृतवन्तावित्याह
नकुल
इति।
नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। शङ्खतच्छब्दकर्तृनामकीर्तनेन परेषामुत्कर्षः सूचितः।