Sbg 1.15 scpur
Sanskrit Commentary By Sri Purushottamji
।।1.15।।श्रीकृष्णादिशङ्खानां महत्त्वज्ञापनार्थं नामान्याह पाञ्चजन्यमित्यादिद्वयेन। पाञ्चजन्यं हृषीकेशो वादितवान्। पाञ्चजन्यादीनि तत्तच्छङ्खानां नामानि शङ्खमाहात्म्यज्ञापनार्थमुक्तानि। पञ्चजनदैत्यप्रभावत्वात्पाञ्चजन्यः। देवदत्तमग्निदत्तम्।पौण्ड्रादयोऽपि
तत्तद्गुणविशिष्टास्तत्तदुपाख्यानैरवगन्तव्याः। सर्वेषामिन्द्रियप्रवर्त्तकस्य युद्धप्रवृत्तौ सर्वेन्द्रियाणि स्वत एव प्रवर्त्तेरन्निति हृषीकेश इत्युक्तम्। धनञ्जयः देवदत्तं वादितवान्। धनं जयोऽस्य जये यस्येति वा। पौण्ड्रं महाशङ्खं स्वरूपतो गुरुतरं भीमकर्मा भयानककर्मकर्ता वृकोदरो भीमसेनो दध्मौ वादितवान्।भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः। योगः प्राणो बलं चैव वृकोदर इति स्मृतः। एतद्दशात्मको वायुस्तस्माद्भीमस्तदात्मकः। इति।