Sbg 1.13 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।1.13।। तदेवं सेनापतेर्भीष्मस्य युद्धोत्सवमालक्ष्य सर्वतो युद्धोत्सवः प्रवृत्त इत्याह तत इति। पणवा आनकाः गोमुखाश्च वाद्यविशेषाः। सहसैव तत्क्षणमेवाभ्यहन्यन्त वादिताः। स च शङ्खादिशब्दस्तुमुलो महानभवत्।