Sbg 1.11 scdhan
Sanskrit Commentary By Sri Dhanpati ।।1.11।।तस्माद्भीष्ममेव सेनापतिं गुणभूता भवन्तो रक्षन्त्विति प्रार्थयते अयनेष्विति। संग्रामप्रारम्भे योधानां यथाप्रधानं संख्ये पूर्वपरादिविभागेन नियतेष्ववस्थितिस्थानेष्वयनेषु। तुना कर्तव्यविशेषो द्योत्यते। यथाभागं विभागेन प्राप्तं स्वस्थानमवस्थिताः सावधानतया स्थिताः सर्व एव भवन्तः सर्वसैन्यमधिष्ठाय मध्ये स्थितं युद्धे व्यग्रं सेनापतिं भीष्ममेवाभि समन्ताद्रक्षन्तु परबलनिवृत्त्यर्थमस्माभिस्तस्मिन्नक्षिते सर्वमस्मदीयं रक्षितं स्यादित्यर्थः।