Sbg 1.9 scdhan
Sanskrit Commentary By Sri Dhanpati ।।1.9।।गणयितुमसंख्यान्सर्वानपि संगृह्णाति अन्ये चेति। बहवोऽपरिमिताः स्वजीवितादप्यधिका मयि सर्वेषां भवदादीनां प्रीतिरस्तीत्याह मदर्थ इति। त्यक्तं जीवितं यैस्ते मदर्थे जीवितमपि गच्छति चेत्तर्हि सर्वैस्त्यज्यत इति भावः। परे महेष्वासा
अस्मदीयास्तु नानाशस्त्रप्रहरणा इति स्वकीयानामुत्कर्षं द्योतयन्नाह नानाविधानि शस्त्राणि खङ्गादीनि प्रहरणानि गदादीनि च येषां ते। युद्धाकुशलतानिरासार्थमाह
सर्वे इति।
युद्धे विशारदा विचक्षणाः।